शिक्षणं एका सामाजिक प्रक्रिया अस्ति या प्रत्येकदेशस्य शासनप्रणाल्या सामाजिकमूल्यैः दार्शनिकमूल्यैः संस्कृत्या च प्रभाविता भवति। यस्मिन् देशे यादृशी शासनप्रणाली यादृशी च दार्शनिक विचारधारा भवति तत्र शिक्षाप्रक्रियाया उपरि देशस्य शासनप्रणाल्याःदार्शनिकपक्षस्य च तादृश एव प्रभावि भवति। या वाचः पिता तनुं च हृदयं संशाधयन्ति ध्रुवं या देवैरपि पूजिता व्यवह्रूता वेदेषु यासां स्थितिः। याश्चाप्यभ्यसिताः सदा विदधते या स्वारवन्तं नरं ताः श्लाघ्या गुणगुम्फिताः सुमहात्मन माधुर्यधुर्या गिरः। सम् पुर्वक क्रुञ् दातोः क्त प्रत्यये क्रूते संस्कृतम् इति पदं निष्पन्नम्। संस्कृतम् इति पदं प्रथमं आदिकाव्ये रामायणे वाल्मीकिमुनिना भाषाऋपार्थे व्यवह्रूतम् यथा। यदि वाचं प्रदास्यामि द्विजातिरिव संस्कृताम्। Tरावणं मन्यमाना मां सीता भीता भविष्यति।भविष्यति आचार्य दण्डिना उक्तं यत् संस्कृतम् देवभाषा अस्माकं मुनिभिरपि सा एव भाषा व्यवहारः व्यवह्रूता संस्कृतम् प्रभावोत्पदकभाषा काव्यभाषा पण्डितान् अपि मुकान् करोति मन्दमतीन्प्रति अनन्यप्रतिभासम्पन्नान् करोति। अमरवाणी वेदान्तविद्यातत्व प्रचारः लोके विद्यमानानां मानवानां संसारदुःखं दूरीकरोति। कालिदासप्रभूतिनां महाकविनां काव्यैः ह्रदयोउललासं जनयति घर्मसुत्रऐः मानवान् उन्नतमागे प्रापयति। इसुरभारती सार्वजनिना सार्वकालिक च वर्तते। वैदिककालादारभ्य अद्यावधि अस्याः पठनपाठनम् अविच्छिन्नतया प्रचलदस्ति। परिवर्तमाने संसारे संस्कृतशिक्षणमपि स्वकीयं महत्वपूर्णं पुरातनं स्वरूपम् नुतनशिक्षणपद्धतीः स्वान्तः करोति। अत एव वयमिदानीं प्राचीनपद्धतिभिस्साकं नूतनविधीँचश्च स्वीकृत्य संस्कृतशिक्षणप्रक्रियामग्रे अग्रे प्रचलन्ति स्मः। गुणैकग्राहिणो वयं पुरातननूतनपद्धतिषु विद्यमानान् गुणान् स्वीकृत्य शिक्षणं कर्तुं प्रयतामहे। भाषा शिक्षणम् अन्यशिक्षणप्रकारापेक्षया भिन्नमेव भवति। अत्रापि संस्कृतभाषाशिक्षणम् अन्यभाषाशिक्षणात् भिन्नं भवति। अतः संस्कृतशिक्षणे त्रयः विषयाः अन्तर्भवन्ति। भाषाशिक्षणम् साहित्यशिक्षणम् शास्त्रशिक्षणम् इति। अपि चेयमिदानीं कुत्रापि च मात्रुभाषारुपेण नास्ति। तेन कारणेन संस्कृतशिक्षणं मात्रुभाषाशिक्षणादपि भिन्नं भवति। संस्कृतं नाम भाषा। अतः संस्कृतभाषायाः भाषिकतत्वानाम् अर्थात् वर्णानां शब्दरूपाणां धातुरूपाणि लकाराणां सन्धिनां समासानां विशेषण विशेष्यादिनां शिक्षणं संस्कृतशिक्षणम् इति उच्यते।