User:Pranathi amarnath/sandbox

                                       दर्षानविधिः
File:Https://en.wikipedia.org/wiki/East

तत्र कात्यायनः‌- विनीतवेश न्रुपतिः सभां गत्वा समाहितः । आसीनः प्राभुखसिस्यत्वा पषयेत्कार्याणी कार्यिणाम् । सह त्रैविध्यव्रुदैस्च मन्त्रगैस्चैव मन्त्रिभिः॥ अत्रासनस्थित्योः युगपत्कर्तुमशक्यत्वाद्विकल्पः। अत एव मनुः‌- तत्रासीनस्सिथतो वापि पाणीमुध्यम्य दक्षिणम्। विनीतवेषाभरणः पश्येत्कार्याणी कार्यिणाम्॥ अयं चासनस्थित्योर्विकल्पः शयनचाह्कमणनिषेधार्थः। 'दक्षिणं पाणिमुद्यम्य ' इति प्रावरणार्थ वस्त्रमप्युपवीतवदेव ब्राह्मणसभायां धार्यमिति नियमार्थम्। तथाच स्म्रुत्यन्तरम्- 'ब्राह्म्णानां तु संसदि' इति, 'दक्षिणं[1] बाहुमुदरते' इति। 'विनीतवेषाभरणः' इत्यैदत्यनिषेधार्थम्। तथाच प्रजापतिः- राजाsभिषेकसंयुक्तो ब्राह्नणो वा बहुष्रुतः। धर्मासनगतः पशयेद्वचहाराननुल्बणः ॥ अनुल्बणोsनुद्वतः, उल्बणग्रहणं मत्सरस्चापि प्रदर्षनार्थम्। तथाच‌ नारदः- तस्माद्वर्मासनं प्राप्य राजा विगतमत्सरः। समस्र्चात्सर्वभूतेषु बिभ्रद्वैवस्वतं व्रतम्॥ वैवस्वतं व्रतं यमव्रतम्। तच्च् तेनैव दर्षितम्- यथा यमः प्रियद्वेष्यै प्रप्ते काले नियच्छ्ति। तथा राग्न्या नियन्तव्याः प्रजास्तद्वि यमव्रतम्॥ याग्न्यवल्क्योपि— तस्माध्यम इव स्वामी स्वयं हित्वा प्रियाप्रिये। वर्तते धर्म्यया व्रुत्या जितत्रोधो जितेन्द्रियः॥ क्रोधग्रहणं लोभस्चापि प्रदर्षनार्थम्। तथाच स एव— [[1]]न्न्रुपः पश्योद्विद्व्द्र्विर्बाह्म्णैस्सह। धर्मशास्त्रानुसारेण क्रोधमलोभविवार्जितः॥ धर्मशास्त्रानुसारेणेत्येतदैशनसाद्यर्थशास्त्रानुसारस्य निव्रुत्तचर्थ, न पुनर्धर्मशास्त्रान्तर्गतराजनीयाद्यर्थशास्त्रानुसरणस्यापि, यत आह् नारदः— धर्मशास्त्रार्थशास्त्राभ्यामविरोधेन पार्थिवः। समीक्षमाणो निपुणं व्यवहारगतिं नयेत्॥ धर्मशास्त्रा[2]णि च पितामहेन दर्शितानि— वेदास्साह्गास्तु चत्वारो मीमांसा स्म्रुतयस्तथा। एतानि धर्मशास्त्राणि पुराणं न्यायदर्शनम्॥ प्रमाणान्तरद्र्रष्टार्थविषया स्म्रुतिरर्थप्रधानत्वादर्थशास्त्रतयाsभिप्रेता, सा च भविष्यत्पुराणे दर्शिता— षाह्गुण्यस्च प्रयोगक्ष्वाप्रयोगाः कार्यगोरवात्। सामादीनाम्रुपायानां योगो व्याससमासतः॥ अध्यक्षाणां च निक्षेपः कण्टकानां निरुपणम्। द्रुष्टार्थेयं स्म्रुतिः प्रोक्त्ता ऋषिभिर्गरुडाग्रज॥ इति। द्रुष्टार्थायाः स्म्रुतेरुदाहरणमात्रमेनतत्। एवंच सन्धिविग्रहादिद्रुष्टार्थबिषया स्म्रुतिरर्थशास्त्रमित्यर्थः। एतच्चोभयविधशास्त्रानुसरणं तयोः मिथो विरोधाभाव एव। तथाच नारदः— यत्र विप्रतिपत्तिस्स्याद्वर्मशास्त्रार्थशास्त्रयोः। अर्थशास्त्रोक्त्तमुत्स्रुज्य धर्मशास्त्रोक्त्तमाचरेत्॥ अतो यत्रैकस्य जयेsवधार्यमाणेsर्थशास्त्रोक्त्तमित्रलब्धिर्धर्मशास्त्रोक्त्तमार्गविरोधेन भवति तत्र मित्रमलब्धिविरोधेनापरस्यैव जयावधारणं कार्यम् यत्र पुनर्धर्मस्म्रुत्योर्विरोधस्तत्रोक्त्त्ं याग्न्ह्यवल्क्येन— स्म्रुत्योर्विरोधे न्यायस्तु बलवान् व्यवहारतः। इति। ष्रुतिमूलस्म्रुत्योर्विरोधे व्रुद्वव्यवहारावगतसावकाशनिरवकाशत्वादितर्कबलेन यथा व्यवस्थितविषयता तयोर्ग्न्ययते तथा ग्रुहितव्यमित्यर्थः। एवमविरोधेsपि न्यायावधारितशस्त्रार्थस्चैवानुसरणं कार्यमित्याह ब्रुहस्पतिः— केवलं शास्त्रमाष्रित्य न कर्तव्यो विनिर्णयः। युक्तिहीने विचारे तु धर्महानिः प्रजायते॥ अतस्तर्कानुग्रुहीतमेव शास्त्रार्थमाष्रित्य निर्णेतव्यमित्यर्थादुक्त्तं भवति। उक्त्त्ं च गैतमेन— 'न्यायाधिगमे तर्कोsभ्युपायः,तेनाभ्युहु यथास्थानं गमयेत्' न्यायाधिगमो धर्माधिगमो इत्यर्थः। तथाच स्म्रुत्यन्तरम्— यस्तर्केणानुसंधत्ते स धर्मं वेद नेतरः। इति।अतो न सहसा निश्ऱूनुयादित्याह पितामहः— असत्यास्सत्यसाकाशास्सत्याष्वासत्यसन्निभाः।द्रुश्यन्ते भ्रान्तिजनकास्तस्माद्युक्त्त्ं परीक्षणम्॥ नारदोपि— तलवद्रुश्यते व्योम खद्योतो हव्यवाडिव। न तलं विद्यते व्योग्नि न खद्योतो हुताशनः॥ तस्मात्प्रत्यक्षद्रुष्टेsपि युक्त्तमर्यात्परीक्षिम्। परीक्ष्य ग्य्नापयन्नर्थान् न धर्मात् परिहीयते॥ यात्यचोरोपि चोरत्वं चोरक्स्चायात्यचोरताम्। अचोरष्कोरतां प्राप्तो माण्डव्यो व्यवहारतः॥ सुक्ष्मो हि भगवान् धर्मो दुष्प्रेक्षो दुर्बिचारणः। अतः प्रत्यक्षमार्गेण व्यवहारगत्तिं नयेत्॥